Tuesday, March 14, 2017

Bhagavadgita 10-18, श्रीमद्भगवद्गीता १०-१८

श्लोकः
विस्तरेणात्मनो योगं विभूतिं च जनार्दन।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्।।१०-१८।।

सन्धि विग्रहः
विस्तरेण आत्मनः योगं विभूतिम् च जनार्दन।
भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम्।।१०-१८।।

श्लोकार्थः
हे जनार्दन! आत्मनः योगम् विभूतिम् च भूयः विस्तरेण कथय।
(एतत्) अमृतम् शृण्वतः हि मे तृप्तिः न अस्ति।

शब्दार्थः
10.18. विस्तरेण=in detail आत्मनः=your योगं=mystic power विभूतिम्=opulences=also जनार्दन=O killer of the atheists भूयः=again कथय=describe तृप्तिः=satisfaction हि=certainly शृण्वतः=hearing न अस्ति=there is not मे=my अमृतम्=nectar

Meaning
10.18: O Janardhana (Krishna) tell me again in detail your yogam and vibhutim (power of yoga and manifestations). There is no satiation or satisfaction in me in hearing your nectar-like words.

Monday, March 13, 2017

Bhagavadgita 10-17, श्रीमद्भगवद्गीता १०-१७

श्लोकः
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया।।१०-१७।।

सन्धि विग्रहः
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन्।
केषु कषु च भावेषु चिन्त्यः असि भगवन् मया।।१०-१७।।

श्लोकार्थः
हे योगिन्! सदा परिचिन्तयन् अहम् त्वाम् कथम् विद्याम्?
हे भगवन्! केषु केषु च भावेषु (त्वं) मया चिन्त्यः असि?

शब्दार्थः
10.17. कथम्=how विद्याम् अहम्=shall I know योगिन्=O supreme mystic त्वाम्=you सदा=always परिचिन्तयन्=thinking of केषु कषु=in which, in which=also भावेषु=natures चिन्त्यः=after thinking असि=You are to be remembered भगवन्=O supreme मया=by me

Meaning
10.17: How may I know you O Yogin, by always thinking of you? Moreover, in what aspects, am I to think of you O Bhagavan?