Sunday, September 11, 2016

Bhagavadgita 6-20 6-21 6-22 6-23, श्रीमद्भगवद्गीता ६-२० २१ २२ २३

श्लोकः
यत्रोपरमते चित्तं निरुद्धं योगसेवया।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यते।।६-२०।।
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्तवतः।।६-२१।।
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्पते।।६-२२।।
तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा।।६-२३।।

सन्धि विग्रहः
यत्र उपरमते चित्तम् निरुद्धम् योग-सेवया।
यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति।।६-२०।।
सुखम् आत्यन्तिकम् यत् तत् बुद्धि-ग्राह्यम्-अतिन्द्रियम्।
वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः।।६-२१।।
यम् लब्ध्वा च अपरम लाभम् मन्यते न अधिकम् ततः।
यस्मिन स्थितः न दुःखेन गुरुणा अपि विचाल्यते।।६-२२।।
तम् विद्यात् दःख-संयोग-वियोगम् योग-संज्ञितम्।
सः निश्चयेन योक्तव्यः योगः अनिर्विण्ण-चेतसा।।६-२३।।

श्लोकार्थः
योग-सेवया निरुद्धम् चित्तम् यत्र उपरमते,
च एव यत्र आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति,
यत्र यत् तत् बुद्धि-ग्राह्यम्-अतिनद्रियम् आत्यन्तिकम्
सुखम् वेत्ति, (यत्र) च स्थितः अयम् तत्तवतः न एव चलति,
यम् च लब्ध्वा, ततः अधिकम्, अपरम् लाभम् न मन्यते,
यस्मिन स्थितः गुरुणा अपि दुःखेन न विचाल्यते,
तम् दुःख-संयोग-वियोगम् योग-संज्ञितम् विद्यात्,
सः योगः अनिर्विण्ण-चेतसा निश्चयेन योक्तव्यः।

शब्दार्थः
6.20 यत्र=in that state of affairs where उपरमते=cease (because one feels transcendental happiness) चित्तम्=mental activities निरुद्धम्=being restrained from matter योग-सेवया=by performing of yoga यत्र=in which=also एव=certainly आत्मना=by the pure mind आत्मानम्=the self पश्यन्=realizing the position of आत्मनि=in the self तुष्यति=one becomes satisfied
6.21 सुखम्=happiness आत्यन्तिकम्=supreme यत्=which तत्=that बुद्धि=by intelligence ग्राह्यम्=accessible अतिन्द्रियम्=transcendental वेत्ति=one knows यत्र=wherein=never=also एव=certainly अयम्=he स्थितः=situated चलति=moves तत्त्वतः=from the truth
6.22 यम्=that which लब्ध्वा=by attainment=also अपरम्=any other लाभम्=gain मन्यते=considers=never अधिकम्=more ततः=than that यस्मिन=in which स्थितः=being situated=never दुःखेन=by miseries गुरुणा=even though very difficult अपि=also विचाल्यते=becomes shaken
6.23 तम्=that विद्यात्=you must know दःख-संयोग=of the miseries of material contact वियोगम्=extermination योग-संज्ञितम्=called trance in yoga सः=that निश्चयेन=with firm determination योक्तव्यः=must be practiced योगः=yoga system अनिर्विण्ण-चेतसा=without deviation

Meaning
6.20: When the mind is at rest and under restraint from the practice of yoga, he enjoys the Self by seeing the Self through the self.
6.21: When he knows that the Supreme happiness, experienced by the intelligence, is beyond the grasp of the senses, the yogi, standing firm, never swerves from the Truth.
6.22: By gaining that [ truth], he considers there is no more to gain; thus standing firm, even a great sorrow does not move him (he is never moved by any great sorrow).

6.23: You must know, in perspective of yoga, this disjunction (viyoga) of union with pain. This yoga should be practiced with determination and unwearied mind. (Determination and unwearied mind must underlie practice of this yoga.)